|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.171. अध्यायः 171
Mahabharata - Shanti Parva - Chapter Topics
गौतमेनन रात्रौ सुप्तं बकं हत्वाऽग्नौ पक्वतन्मांसमुपगृह्य स्वग्रामंप्रति प्रस्थानम्॥ 1॥ परेद्युर्बकस्यानागमनेन तस्य विपदाशङ्किना विरूपाक्षेण तद्वृत्तान्तजिज्ञासया स्वपुत्रस्य नियोजनम्॥ 2॥ पितृनियोगात्सपरिवारेण विरूपाक्षसुतेन गौतमहननम्॥ 3॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-171-0x(5867)(71839)
अथ तत्र महार्चिष्माननलो वातसारथिः।
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत्॥ 12-171-1(71840)
स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट् तदा।
कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरीत्॥ 12-171-2(71841)
ततोऽलातेन दीप्तेन स सुप्तं निजघान तम्।
निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान्॥ 12-171-3(71842)
स तं विपक्षरोमाणं कृत्वाऽग्नावपचत्तदा।
तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः॥ 12-171-4(71843)
`ततो दाक्षायणीपुत्रं नागतं तं तु भारत।
विरूपाक्षश्चिन्तयन्वै हृदयेन विदूयता॥' 12-171-5(71844)
ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम्।
न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम्। 12-171-6(71845)
स पूर्वसन्ध्यां ब्रह्माणं वन्दितुं याति सर्वदा।
मां चादृष्ट्वा कदाचित्स न गच्छति गृहं खगः॥ 12-171-7(71846)
द्विरात्रमुभयोः सन्ध्योर्नाभ्यगच्छन्ममालयम्।
तस्मान्न शुद्ध्यते भावो मम स ज्ञायतां सुहृत्॥ 12-171-8(71847)
स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः।
स गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः॥ 12-171-9(71848)
दुराचारः स दुर्बुद्धिरिङ्गितैर्लक्षितो मया।
निष्कृपो दारुणाकारो दुष्टो दस्युरिवाधमः।
गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम॥ 12-171-10(71849)
पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम्।
ज्ञायतां स विशुद्धात्मा यदि जीवति वा चिरम्॥ 12-171-11(71850)
स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ।
* न्यग्रोधे राजधर्माणमपश्यन्निहतं ततः॥ 12-171-12(71851)
रुदित्वा बहुशस्तस्मै विलप्य च स राक्षसः।
गतो रोषसमाविष्टो गौतमग्रहणाय वै॥ 12-171-13(71852)
गृहीतो गौतमः पापो रक्षोभिः क्रोधमूर्च्छितैः।
राजधर्मशरीरस्य कङ्कालश्चाप्यथो धृतः॥ 12-171-14(71853)
मनुव्रजं तु नगरं यातुधानास्ततो गताः।
क्रोधरक्तेक्षणा घोरा गौतमस्य वधे धृताः॥ 12-171-15(71854)
पार्थिवस्वाग्रतो न्यस्तः कङ्कालो राजधर्मणः।
तं दृष्ट्वा विमना राजा सामात्यः सगणोऽभवत्॥ 12-171-16(71855)
आर्तरावो महानासीद्गृहे तस्य महात्मनः।
समुत्थितः स्रीसङ्घस्य निहते काश्यपात्मजे॥ 12-171-17(71856)
राजा चैवाब्रवीत्पुत्रं पापोऽयं वध्यतामिति॥ 12-171-18(71857)
राक्षमा ऊचुः। 12-171-19x(5868)
अस्य मांसं वयं सर्वे खादिष्यामः समागताः।
पापकृत्पापकर्मा च पापात्मा पापमास्थितः।
हन्तव्य एव पापात्मा कृतघ्नो नात्र संशयः॥ 12-171-19(71858)
विरूपाक्ष उवाच। 12-171-20x(5869)
कृतघ्नं पापकर्माणां न भक्षयितुमुत्सहे।
दासेभ्यो दीयतामेप मित्रध्रुक्पुरुपाधमः॥ 12-171-20(71859)
भीष्म उवाच। 12-171-21x(5870)
दासाः सर्वे समाहूता यातुधानास्तथा परे।
नेच्छन्ति स्म कृतघ्नं तं खादितुं पुरुषोत्तम॥ 12-171-21(71860)
शिरोभिश्चागता भूमिं महाराज ततो बलात्।
मानार्थं जातु निर्बन्धं किल्विषं दातुमर्हसि॥ 12-171-22(71861)
यातुधाना नृपेणोक्ताः पापकर्मा विशस्यताम्।
दह्यतां त्यज्यतां वाऽयं दर्शनादपनीयताम्॥ 12-171-23(71862)
ततस्ते रुपिता दासाः शूलपट्टसपाणयः।
खण्डशो विकृतं हत्वा क्रव्याद्भ्यो ह्यददुस्तदा॥ 12-171-24(71863)
क्रव्यादास्त्वपि राजेन्द्र नेच्छन्ति पिशिताशनाः।
मृतानपि हि क्रव्यादाः कृतघ्नान्नोपभुञ्जते॥ 12-171-25(71864)
ब्रह्मस्वहरणे चोरे ब्रह्मघ्ने गुरुतल्पगे।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥ 12-171-26(71865)
मित्रद्रुहं कृतघ्नं च नृशंसं च नराधमम्।
क्रव्यादाः किमयश्चैव नोपभुञ्जन्ति वै सदा॥ ॥ 12-171-27(71866)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकसप्तत्यधिकशततमोऽध्यायः॥ 171॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-171-3 अनुबन्ध पापदोषम्॥ 12-171-8 तद्व्रत इति पाठे हिंस्रधर्म॥
* इत आरभ्य आद्विसप्तत्यधिकशततमाध्यायसमाप्ति विद्यमानानां श्लोकानां स्थाने अधोलिखितश्लोका झ. पाठे वर्तन्ते। तेच
Mahabharata - Shanti Parva - Chapter Text
12-171a-1a न्यग्रोधं तत्र चापश्यत्कङ्कालं राजधर्मणः। 12-171a-1b स रुदन्नगमत्पुत्रो राक्षसेन्द्रस्य धीमतः। 12-171a-1c त्वरमाणः परं शक्त्या गौतमग्रहणाय वै॥ 12-171a-2a ततो विदूरे जगृहुगौतमं राक्षसास्तदा॥ 12-171a-3a राजधमर्शरीरं च पक्षास्थिचरणोज्झितम्। 12-171a-3b तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः॥ 12-171a-4a राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः। 12-171a-4b कृतघ्नं पुरुषं तं च गौतमं पापकारिणम्॥ 12-171a-5a रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः। 12-171a-5b आर्तनादश्च सुमहानभूत्तस्य निवेशने। 12-171-5c सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम्॥ 12-171a-6a अथाव्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति। 12-171a-6b अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः॥ 12-171a-7a पापाचारः पापकर्मा पापात्मा पापसाधनः। 12-171a-7b हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः॥ 12-171a-8a इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः। 12-171a-8b नेच्छन्त तं भक्षयितुं पापकर्माणमित्युत॥ 12-171a-9a दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः। 12-171a-9b इत्यूचुस्ते गहाराज राक्षसेन्द्रं निशाचराः॥ 12-171a-10a शिरोभिः प्रणताः सर्वे व्याहरन्राक्षसाधिपम्। 12-171a-10b न दातुमर्हसि त्वं नो भक्षणायास्य किल्विषम्॥ 12-171a-11a एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान्। 12-171a-11b दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः॥ 12-171a-12a इत्युक्ता राक्षसास्तेन शूलपट्टसपाणयः। 12-171a-12b कृत्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा॥ 12-171a-13a दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम्। 12-171a-13b क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते॥ 12-171a-14a ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा। 12-171a-14b निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः॥ 12-171a-15a मित्रदोही कृतघ्नश्च नृशंसश्च नराधमः। 12-171a-15b क्रव्यादैः कृमिभिश्चैव न भुज्यन्ते हि तादृशाः॥ 12-171-16x भीष्म उवाच। 12-171a-16a ततश्चितां बकपतेः कारयामास राक्षसः। 12-171a-16b रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम्॥ 12-171a-17a ततः प्रज्वाल्य नृपतिर्बकराजं प्रतापवान्। 12-171a-17b प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह॥ 12-171a-18a तस्मिन्काले च सुरभिर्देवी दाक्षायणी शुभा। 12-171a-18b उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी॥ 12-171a-19a तस्य वक्राच्च्युतः फेनः क्षीरमिश्रस्तदाऽनघ। 12-171a-19b सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः॥ 12-171a-20a ततः संजीवितस्तेन बकराजस्तदाऽनघ। 12-171a-20b उत्पत्य च समीयाय विरूपाक्षं बकाधिपः॥ 12-171a-21a ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा। 12-171a-21b प्राह चेदं विरूपाक्षं दिष्ट्या संजीवितस्त्वया॥ 12-171a-22a श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम्। 12-171a-22b यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः॥ 12-171a-23a यदा बकवती राजन्ब्रह्माणं नोपसर्पति। 12-171a-23b ततो रोषादिदं प्राह स्वगेन्द्राय पितामहः॥ 12-171a-24a यस्मान्मूढो मम सभां नागतोऽसौ बकाधमः। 12-171a-24b तस्माद्वधं स दुष्टात्मा न चिरात्समवाप्स्यति॥ 12-171a-25a तदयं तस्य वचनान्निहतो गौतमेन वै। 12-171a-25b तेनैवामृतसिक्तश्च पुनः संजीवितो बकः॥ 12-171a-26a राजधर्मा बकः प्राह प्रणिपत्य पुरंदरम्। 12-171a-26b यदि तेऽनुग्रहकृता मयि बुद्धिः सुरेश्वर। 12-171a-26c सखाऽयं मे सुदयितं गौतमं जीवयेत्युत॥ 12-171a-27a तस्य वाक्यं समादाय वासवः पुरुषर्षभ। 12-171a-27b सिक्त्वाऽमृतेन तं विप्रं गौतमं जीवयत्तदा॥ 12-171a-28a सभाण्डोपस्कारं राजंस्तमासाद्य बकाधिपः। 12-171a-28b संपरिष्वज्य सुहृदं प्रीत्या परमया युतः॥ 12-171a-29a अथ तं पापकर्माणं राजधर्मा बकाधिपः। 12-171a-29b विसर्जयित्वा सधनं प्रविवेश स्वमालयम्॥ 12-171a-30a यथोचितं च स बको ययौ ब्रह्मसदस्तथा। 12-171a-30b ब्रह्मा चैनं महात्मानमातिथ्येनाभ्यपूजयत्॥ 12-171a-31a गौतमश्चापि संप्राप्य पुनस्तं शबरालयम्। 12-171a-31b शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः॥ 12-171a-32a शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा। 12-171a-32b कुक्षौ पुनर्भ्वाः पापोऽयं जनयित्वा चिरात्सुतान्। 12-171a-32c निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो॥ 12-171a-33a एतत्प्राह पुरा सर्वं नारदो मम भारत। 12-171a-33b संस्मृत्य चापि सुमहदाख्यानं भरतर्षभ। 12-171a-33c मयाऽपि भवते सर्वं यथावदनुवर्णितम्॥ 12-171a-34a कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्। 12-171a-34b अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः॥ 12-171a-35a मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः। 12-171a-35b मित्रध्रुङ्गरकं घोरमनन्तं प्रतिपद्यते॥ 12-171a-36a कृतज्ञेन सदा भाव्यं मित्रकामेन चैव ह। 12-171a-36b मित्राच्च लभते सर्वं मित्रात्पूजां लभेत च॥ 12-171a-37a मित्राद्भोगांश्च भुञ्जीत मित्रेणापत्सु मुच्यते। 12-171a-37b सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः॥ 12-171a-38a परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः। 12-171a-38b मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः॥ 12-171a-39a एष धर्मभूतां श्रेष्ठ प्रोक्तः पापो मया तव। 12-171a-39b मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि॥ 12-171a-40x वैशम्पायन उवाच। 12-171a-40a एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना। 12-171a-40b युधिष्ठिरः प्रीतमना बभूव जनमेजय॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-171a-1 कङ्कालमस्थि॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|